Shri Ram Raksha Stotra | श्री राम रक्षा स्तोत्र हिंदी: आज हम इस आर्टिकल में श्री राम रक्षा स्तोत्र पड़ेंगे, आपको भी रोजाना श्री राम रक्षा स्तोत्र का पाता करना चाहिए, जिससे आपका जीवन खुशियाली से बीते.
Shri Ram Raksha Stotra – श्री राम रक्षा स्तोत्र हिंदी
विनियोग: अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः । श्री सीतारामचंद्रो देवता । अनुष्टुप छंदः। सीता शक्तिः । श्रीमान हनुमान कीलकम । श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः । अथ ध्यानम्: ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं, पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम । वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी, रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥ राम रक्षा स्तोत्रम्: चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥ सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥ कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ करौ सीतापतिः पातु हृदयं जामदग्न्यजित । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥ जानुनी सेतुकृत पातु जंघे दशमुखांतकः । पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥ एतां रामबलोपेतां रक्षां यः सुकृति पठेत । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ पातालभूतल व्योम चारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ रामेति रामभद्रेति रामचंद्रेति वा स्मरन । नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ वज्रपञ्जरनामेदं यो रामकवचं स्मरेत । अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥ आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥ सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥ रामो दाशरथी शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम । स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं, काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम । राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं, वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥ रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ श्रीराम राम रघुनन्दनराम राम, श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम, श्रीराम राम शरणं भव राम राम ॥ श्रीराम चन्द्रचरणौ मनसा स्मरामि, श्रीराम चंद्रचरणौ वचसा गृणामि । श्रीराम चन्द्रचरणौ शिरसा नमामि, श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥ माता रामो मत्पिता रामचन्द्रः स्वामी, रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं, जाने नैव जाने न जाने ॥ दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ रामो राजमणिः सदा विजयते रामं रामेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥
धन्यवाद!
यह भी पढ़े:
Team: HindiGrab.in